Monday, February 3, 2014

~ माँ सरस्वती पूजा, वागीश्वरी जयन्ती एवं बसंत पञ्चमी २०१४ ~

 
 
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिर्
देवै: सदा वन्दिता
सा मां पातु सरस्वती भगवती नि:शेषजाड्यापहा ।। १ ।।

आशासु राशीभवदङ्ग वल्ली-
भासैव दासीकृतदुग्धसिन्धुम् ।
मन्दस्मितैर्निन्दितशारदेन्दु
वन्देsरविन्दाससुन्दरि त्वाम् ।। २ ।।

शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ।। ३ ।।

सरस्वतीं च तां नौमि वागधिष्ठातृदेवताम् ।
देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जना: ।। ४ ।।

पातु नो निकषग्रावा मतिहेम्न: सरस्वती।
प्राज्ञेतरपरिच्छेदं वचसैव करोति या ।। ५ ।।

शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापनीं
वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।
हस्ते स्फटिकमालिकां च दधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ।। ६ ।।

वीणाधरे विपुलमङ्गलदानशीले
भक्तार्तिनाशिनि विरञ्चिहरीशवन्द्ये ।
कीर्तिप्रदेsखिलमनोरथदे महार्हे
विद्याप्रदायिनी सरस्वती नौमिनित्यम् ।। ७ ।।

श्वेताब्जपूर्ण विमलासनसंस्थिते हे
श्वेताम्बरवृतमनोहरमञ्जुगात्रे ।
उद्यन्मनोज्ञसितपङ्कजमञ्जुलास्ये
विद्याप्रदायिनी सरस्वति नौमि नित्यम् ।। ८ ।।

मातस्त्वदीयपदपङ्कजभक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय ।
ते निर्जरत्वमिह यान्ति कलेवरेण
भूवह्निवायुगगनाम्बुविनिर्मितेन् ।। ९ ।।

मोहान्धकारभरिते हृदये मदीये
मात: सदैव कुरु वासमुदारभावे ।
स्वीयाखिलावयवनिर्मलसुप्रभाभि:
शीघ्रं विनाशय मनोगतमन्धकारम् ।। १० ।।

ब्रह्मा जगत् सृजति पालयतीन्दिरेश:
शम्भुर्विनाशयति देवि तव प्रभावै: ।
न स्यात्कृपा यदि तव प्रकटप्रभावे
न स्यु: कथञ्चिदपि ते निजकार्यदक्षा: ।। ११ ।।

लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टि: प्रभा धृति: ।
एताभि: पाहि तनु भिरष्टाभिर्मां सरस्वति ।। १२ ।।

सरस्वत्यै नमो नित्यं भद्रकाल्यै नमो नम: ।
वेदवेदान्तवेदाङ्ग विद्या स्थानेभ्य एव च ।। १३ ।।

सरस्वति महाभागे विद्ये कमललोचने।
विद्यारूपे विशालाक्षि विद्यां देहि नमोsस्तु ते ।। १४ ।।

यदक्षरं पदं भ्रष्टं मात्राहीनं च यद्भवेत ।
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ।। १५ ।।
~ इति श्रीसरवतीस्तोत्रं सम्पूर्णम्। ~

 
सभी मित्रों को सपरिवार माँ सरस्वती पूजा, वागीश्वरी जयन्ती एवं
बसंत पञ्चमी मंगलपर्व की हार्दिक मंगलकामनाएं ..